किं नाम सनातन-धर्मः ?
This essay, written in Sanskrit, explores the term Sanātana Dharma, its meaning and some of its practices as guided by its texts.
साम्प्रतिके काले वार्तायां सनातन-धर्म इति संज्ञा प्रबला अस्ति । कोऽपि एतम् आदरेण वदति कोऽपि निरादरेण च । किञ्च ये जनाः आदरेण वा निरादरेण वा वदन्ति ते तस्य अर्थं नैव जानन्ति । सामाजिक-विषये तु सनातनधर्म इति हिन्दु-मतस्य अन्यत् एकं नाम भवति ।
तमिल्नाडु-राज्यस्य मुख्यमन्त्री अवदत् वयं सनातनधर्मस्य विनाशनं कुर्याम इति । एतेन वाक्येन सः किं कर्तुमिच्छति , किं वक्तुमिच्छतीति ज्ञातुमस्मिन् प्रबन्धे वयं सनातनधर्मस्य अर्थं चर्चयेम । सनातनधर्मस्य ग्रन्थाः सनातनधर्म इति शब्दस्य अर्थस्य विषये किं वदन्ति इति अपि पश्येम ।
अमरकोशः सनातन इति शब्दस्य विषये वदति यत् -
….. । शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ( ३.१.७१ )
सनातनः नाम नित्यः , सदातनः , ध्रुव इति अर्थाः । एतानि सर्वाणि समानार्थक-पदानि सन्ति ।
धर्म-शब्दः धृ-धातोः मन्-प्रत्ययेन निष्पन्नः । अतः तस्य अर्थः धारण-पोषण-सम्बन्धितः अस्ति । अस्मिन् विषये महाभारतात् उद्धृतः एषः श्लोकः ज्ञातव्यः ।
धारणाद् धर्म इत्याहुः धर्मो धारयते प्रजाः । यत् स्याद् धारणसंयुक्तं स धर्म इति निश्चयः ॥
यः प्रजाः धारयति , यः धारणयुक्तः स्यात् स एव धर्मः ।
अतः सनातन-धर्मः नाम सः धर्मः यः प्रजाः सदा धारयति , सर्वदा धारणयुक्तः च भवति ।
भगवद्गीतायाः एतस्मिन् श्लोके अर्जुनः श्रीकृष्णस्य विश्वरूपं दृष्ट्वा उवाच -
त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् ।
त्वम् अव्ययः शाश्वतधर्मगोप्ता सनातनः त्वं पुरुषो मतो मे ॥ ११.१८॥
अतः सनातनधर्मस्य रक्षिता श्रीकृष्णः एव ।
एतैः श्लोकैः सनातनधर्मस्य अर्थः स्पष्टः एव अस्ति । अतः कोऽपि “ सनातनधर्मस्य अर्थम् अन्यम् एव मन्ये ” इति वक्तुं न शक्नोति ।
एकम् अन्यं उदाहरणं पश्येम । धावने मम आसक्तिः अस्ति । अपि च अहं बह्वीषु धावन-स्पर्धासु भागं स्वीकृतवती । धावने मारतान् (Marathon) इति स्पर्धायाः दूरं षड्विंशति-मील-परिमितम् एव । कोऽपि पञ्चकिलोमीटर् धावित्वा अहं मारतान् धावामि इति नैव वक्तुं शक्नोति । तस्मात् कोऽपि कमपि एकम् आचरणं मनसि मत्वा तदेव सनातनधर्म इति वदति चेत् सा उक्तिः आपत्करी एव ।
जातिविभागः च केषाञ्चित् जातिजनानां निरादरं च विनाशयितुम् इच्छामि इति समीचीनं चिन्तनम् एव । किन्तु मम कृते सनातनधर्मः नाम अधमजातेः जनानां निरादर एव इति उक्तिः नैव सत्यं भवति । यतः सनातनधर्मस्य उपदेशे ईश्वरः तु सर्वत्र सर्वस्मिन् च अन्तर्भवति । तस्मात् सर्वेषाम् अपि साम्यमेव । गुणकर्मविभागाः कस्यापि हीनत्वं न द्योतयन्ति । भगवद्गीतायाः एषः श्लोकः तत् स्पष्टी करोति ।
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ ४-१३॥
अन्ये वर्णाः गुणं च कर्म च अनुसृत्य एव तस्य तस्य कर्मानुसारं वा ईश्वरेण वा सृष्टाः । तेषु किमपि हीनत्वं वा उदारत्वं वा उद्दिष्टं न भवति । यथा एषः श्लोकः बोधयति -
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५-१८॥
पण्डिताः ज्ञानवन्तः एवं चिन्तयन्ति यत् विदुषि ब्राह्मणे , शुनि , गवि , यः श्वानं खादति तस्मिन् अपि , एकमेव ब्रह्म पश्यन्ति । अतः सनातनधर्मे कुत्रापि केषाञ्चित् जनानां निरादरं नैव उक्तम् ।
किञ्च अस्माभिः सनातनधर्मे कस्याम् अपि विमूढस्थित्यां किं करणीयमिति ज्ञातुमेषः श्लोकः स्मरणीयः ।
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥
याज्ञवल्क्य-स्मृतेः उद्धृतः एषः श्लोकः वदति यत् श्रुतिः एव परं प्रमाणम् । श्रुत्यामुत्तरं न प्राप्तं चेत् स्मृत्यां पश्येम । यदि तस्यामपि उत्तरं न लब्धं तर्हि सदाचाराणां आचारेण जानीयाम । अन्ते मम आत्मनः सङ्कल्पेन आदिष्टमेव करवाम ।
अतः सनातनधर्मस्य विषये कोऽपि स्वेच्छया किमपि वक्तुं न शक्नोति । मम उक्तानि सर्वाणि श्रुतेः स्मृतेः सदाचारात् अथवा आत्मसङ्कल्पेन एव युक्तानि भवेयुः ।
यथा कोऽपि इस्लाम्-मतात् क्रिस्तु-मतात् वा उद्धृतायाः संज्ञायाः अर्थमहम् अन्यमेव मन्ये इति कदापि न वदति तथा सनातनधर्मस्य संज्ञायाः अर्थ अन्य एव इति वक्तुं न शक्येत ।
अतः तमिल्नाडु-राज्यस्य मन्त्री किं वा इच्छति इति पृच्छेम चेत् एकमेव उत्तरं मम मनसि आगतम् । स तु अहं क्रिस्तु-मतानुयायी इति उद्घोषितवान् । भारतस्य इतिहासे इस्लाम्-मतानुयायिभिः क्रिस्तु-मतानुयायिभिः च , सनातन-धार्मिकाः बहूनि कष्टानि अनुभूतवन्तः । अब्राहमीय-मतानां ग्रन्थेषु एव लिखितमस्ति यत् मूर्ति-पूजकानामुपरि आक्रमणं करणीयं , मूर्तिपूजकाः हन्तव्याः । अतः एषः मन्त्री हिन्दुमतस्य विनाशाय एव उद्घोषितवान् इति स्पष्टं दृश्यते ।
ईदृशानां मन्त्रिणाम् अब्राहमीय-मतानुयायिनां निवारणाय एषः श्लोकः स्मरणीयः ।
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद् धर्मो न हन्तव्यः मा नो धर्मो हतोऽवधीत् ॥
मनुस्मृतेः उद्धृतः एषः श्लोकः धर्मस्य रक्षणस्य महत्त्वं स्पष्टीकरोति । अपि च यः धर्मस्य हननं करोति सः एव विनश्यति ।
एषः धर्मः सनातनः ।